Sunday, 13 January 2019

YoginihRidayam

|| YoginihRidayam||
॥ योगिनीहृदयम् ॥

श्रीदेव्युवाच
देवदेव महादेव परिपूर्णप्रथामय ।
वामकेश्वरतन्त्रेऽस्मिन्नज्ञातर्थास्त्वनेकशः ॥ १॥

तांस्तानर्थानशेषेण वक्तुमर्हसि भैरव ।
श्रीभैरव उवाच
शृणु देवि महागुह्यं योगिनिहृदयं परम् ॥ २॥

त्वत्प्रीत्या कथयाम्यद्य गोपनीयं विशेषतः ।
कर्णात्कर्णोर्पदेशेन सम्प्राप्तमवनीतलम् ॥ ३॥

न देयं परशिष्येभ्यो नास्तिकेभ्यो न चेश्वरि ।
न शुश्रूषालसानाञ्च नैवानर्थप्रदायिनाम् ॥ ४॥

परीक्षिताय दातव्यं वत्सरार्धोषिताय च ।
एतज्ज्ञात्वा वररोहे सद्यः खेचरतां व्रजेत् ॥ ५॥

चक्रसङ्केतको मन्त्रपूजासङ्केतकौ तथा ।
त्रिविधस्त्रिपुरादेव्याः सङ्केतः परमेश्वरि ॥ ६॥

यावदेतन्न जानाति सङ्केतत्रयमुत्तमम् ।
न तावत्रिपुराचक्रे परमाज्ञाधरो भवेत् ॥ ७॥

तच्छक्तिपञ्चकं सृष्ट्या लयेनाग्निचतुष्टयम् ।
पञ्चशक्तिचतुर्वह्निसंयोगाच्चक्रसम्भवः ॥ ८॥

एतच्चक्रावतारन्तु कथयामि तवानघे ।
यदा सा परमा शक्तिः स्वेच्छया विश्वरूपिणी ॥ ९॥

स्फुरत्तामात्मनः पश्येत्तदा चक्रस्य सम्भवः ।
शून्याकाराद्विसर्गान्ताद् बिन्दोः प्रस्पन्दसंविदः ॥ १०॥

प्रकाशपरमार्थत्वात् स्फुरत्तालहरीयुतात् ।
प्रसृतं विश्वलहरीस्थानं मातृत्रयात्मकम् ॥ ११॥

बैन्दवं चक्रमेतस्य त्रिरूपत्वं पुनर्भवेत् ।
धर्माधर्मौ तथात्मानो मातृमेयौ तथा प्रमा ॥ १२॥

नवयोन्यात्मकं चक्रं चिदानन्दघनं महत् ।
चक्रं नवात्मकमिदं नवधा भिन्नमन्त्रकम् ॥ १३॥

बैन्दवासनसंरूढसंवर्तानलचित्कलम् ।
अम्बिकारूपमेवेदमष्टारस्थं स्वरावृतम् ॥ १४॥

नवत्रिकोणस्फुरितप्रभारूपदशारकम् ।
शक्त्यादिनवपर्यन्तदशार्णस्फूर्तिकारकम् ॥ १५॥

भूततन्मात्रदशकप्रकाशालम्बनत्वतः ।
द्विदशारस्फुरद्रूपं क्रोधीशादिदशारकम् ॥ १६॥

चतुश्चक्रप्रभारूपसंयुक्तपरिणामतः ।
चतुर्दशाररूपेण संवित्तिकरणात्मना ॥ १७॥

खेचर्यादिजयान्तार्णपरमार्थप्रथामयम् ।
एवं शक्त्यनलाकारस्फुरद्रौद्रीप्रभामयम् ॥ १८॥

ज्येष्टारूपचतुष्कोणं वामारूपभ्रमित्रयम् ।
चिदंशान्तस्त्रिकोणं च शान्त्यतिताष्टकोणकं ॥ १९॥

शान्त्यंशद्विदशारञ्च तथैव भुवनारकम् ।
विद्याकलाप्रमारूपदलाष्टकसमावृतम् ॥ २०॥

प्रतिष्टावपुषा सृष्टस्फुरद्द्व्यष्टदलाम्बुजम् ।
निवृत्त्याकारविलसच्चतुस्ष्कोणविराजितम् ॥ २१॥

त्रैलोक्यमोहनाद्ये तु नवचक्रे सुरेश्वरि ।
नादो बिन्दुः कला ज्येष्टा रौद्रीई वामा तथा पुनः ॥ २२॥

विषघ्नीई दूतरी चैव सर्वानन्दा क्रमात् स्थिताः ।
निरंशौ नादबिन्दू च कला चेच्छास्वरूपकम् ॥ २३॥

ज्येष्टा ज्ञानं क्रिया शेषमित्येवं त्रितयात्मकम् ।
चक्रं कामकलारूपं प्रसारपर,मार्थतः ॥ २४॥

अकुले विषुसंज्ञे च शक्ते वह्नौ तथा पुनः ।
नाभावनाहते शुद्धे लम्बिकाग्रे भ्रुवोऽन्तरे ॥ २५॥

बिन्दौ तदर्धे रोधिन्यां नादे नादान्त एव च ।
शक्तौ पुनर्व्यापिकायां समनोन्मनि गोचरे ॥ २६॥

महाबिन्दौ पुनश्चैव त्रिधा चक्रं तु भावयेत् ।
आज्ञान्तं सकलं प्रोक्तं ततः सकलनिष्कलम् ॥ २७॥

उन्मन्यन्तं परे स्थाने निष्कलञ्च त्रिधा स्थितम् ।
दीपाकारोऽर्धमात्रश्च ललाटे वृत्त् इष्यते ॥ २८॥

अर्धचन्द्रस्तथाकारः पादमात्रस्तदूर्ध्वके ।
ज्योत्स्नाकारा तदष्टांशा रोधिनी त्र्यस्रविग्रहा ॥ २९॥

बिन्दुद्वयान्तरे दण्डः शेवरूपो मणिप्रभः ।
कलांशो द्विगुणांशश्च नादान्तो विद्युदुज्ज्वलः ॥ ३०॥

हलाकारस्तु सव्यस्थबिन्दुयुक्तो विराजते ।
शक्तिर्वामस्थबिन्दुद्यत्स्थिराकारा तथा पुनः ॥ ३१॥

व्यापिका बिन्दुविलसत्त्रिकोणाकारतां गता ।
बिन्दुद्वयान्तरालस्था ऋजुरेखामयी पुनः ॥ ३२॥

समना बिन्दुविलसदृजुरेखा तथोन्मना ।
शक्त्यादीनां वपुः स्फूर्जद्द्वादशादित्यसन्निभम् ॥ ३३॥

चतुःषष्टिस्तदूर्ध्वं तु द्विगुणं दिगुणं ततः ।
शक्त्यादीनां तु मात्रांशो मनोन्मन्यास्तथोन्मनी ॥ ३४॥

दैशकालानवच्छिन्नं तदूर्ध्वे परमं महत् ।
निसर्गसुन्दरं तत्तु परानन्दविघूर्णितम् ॥ ३५॥

आत्मनह् स्फुरणं पश्येद्यदा सा परमा कला ।
अम्बिकारूपमापन्न परा वाक् ससुदीरिता ॥ ३६॥

बीजभावस्थितं विश्वं स्फुटीकर्तुं यदोन्मुखी॥

वामा विश्वस्य वमनादङ्कुशाकारतां गता ॥ ३७॥

इच्छाशक्तिस्तदा सेयं पश्यन्ती वपुषा स्थिता ।
ज्ञानशक्तिस्तथा ज्येष्टा मध्यमा वागुदीरिता ॥ ३८॥

ऋजुरेखामयी विश्वस्थितौइ प्रथितविग्रहा ।
तत्संहृतिदशायां तु बैन्दवं रूपमास्थिता ॥ ३९॥

प्रत्यावृत्तिक्रमेणैवं शृङ्गटवपुरुज्ज्वला ।
क्रियाशक्तिस्तु रौद्रीयं वैखरी विश्वविग्रहा ॥ ४०॥

भासनाद्विश्वरूपस्य स्वरूपे बाह्यतोऽपि च ।
एताश्चतस्त्रः शक्त्यस्तु का पू जा ओ इति क्रमात् ॥ ४१॥

पीठाः कन्दे पदे रूपे रूपातीते क्रमात् स्थिताः ।
चतुरस्त्रं तथ बिन्दुषट्कयुक्तं च वृत्तकम् ॥ ४२॥

अर्धचन्द्रं त्रिकोणं च रूपाण्येषां क्रमेण तु ।
पीतो धूम्रस्तथा श्वेतो रक्तो रूपं च कीर्तितम् ॥ ४३॥

स्वयम्भुर्बाणलिङ्गं च इतरं च परं पुनः ।
पीठेष्वेतानि लिङ्गानि संस्थितानि वरानने ॥ ४४॥

हेमबन्धृककुसुमशरच्चन्द्रनिभानि तु ।
स्वावृतं त्रिकूटं च महालिङ्गं स्वयम्भुवम् ॥ ४५॥

कादितान्ता क्षरोपेतं बाणलिङ्गं त्रिकोणकम् ।
कदम्बगोलकाकारं थादिसान्ताक्षरावृतम् ॥ ४६॥

सूक्ष्मरूपं समस्तार्णवृतं परमलिङ्गकम् ।
बिन्दुरूपं परानन्दकन्दं नित्यपओदितम् ॥ ४७
बीअत्रितययुक्तास्य सकस्य मनोः पुनः ।
एतानि वाच्यरूपाणि कुलकौलमयानि तु ॥ ४८॥

जाग्रत्स्वप्नसुषुप्त्याख्यतुर्यरूपाण्यमूनि तु ।
अतितं तु परं तेजः स्वसंविदुदयात्मकम् ॥ ४९॥

स्वेच्छाविश्वमयोल्लेखखचितं विश्वरूपकम् ।
चैतन्यमात्मनो रूपं निसर्गानन्दसुन्दरम् ॥ ५०॥

मेयमातृप्रमामानप्रसरैः संकुचत्प्रभम् ।
शृङ्गाटरूपमापन्नमिच्छाज्ञानक्रियात्मकम् ॥ ५१॥

विश्वाकारप्रथाधारनिजरूपशिवाश्रयम् ।
कामेश्वराङ्कपर्यङ्कनिविष्टमतिसुन्दरम् ॥ ५२॥

इच्छाशक्तिमयं पाशमङ्कुशं ज्ञनरूपिणम् ।
क्रियाशक्तिमये बाणधनुषी दधदुज्ज्वलम् ॥ ५३॥

आश्रयाश्रयिभेदेन अष्टधा भिन्नहेतिमत् ।
अष्टारचक्रसंरूढं नवचक्रासनस्थितम् ॥ ५४॥

एवंरूपं परं तेजः श्रीचक्रवपुषा स्थितम् ।
तदीयशक्तिनिकरस्फुरदूर्मिसमावृतम् ॥ ५५॥

चिदात्मभित्तौ विश्वस्य प्रकाशामर्शने यदा ।
करोति स्वेच्छया पूर्णविचिकीर्षासमन्विता ॥ ५६॥

क्रियाशक्तिस्तु विश्वस्य मोदनाद् द्रावणात्तथा ।
मुद्राख्या सा यदा संविदम्बिका त्रिकलामयी ॥ ५७॥

त्रिखण्डारूपमापन्ना सदा सन्निधिकारिणी ।
सर्वस्य चक्रराजस्य व्यापिका परिकीर्तित ॥ ५८॥

योनिप्राचुर्यतः सैषा सर्वसंक्षोभिका पुनः ।
वामाशक्तिप्रधानेयं द्वारचक्रे स्थिता भवेत् ॥ ५९॥

क्षुब्धाविश्वस्थिततिर्करी ज्येष्टाप्राचुर्यमाश्रिता ।
स्थूलनादकलारूपा सर्वानुग्रहकारिणी ॥ ६०॥

सर्वाशपूरणाख्ये तु सैषा स्फुरितविग्रहा ।
ज्येष्टावामासमन्त्वेन सृष्टेः प्राधान्यमाश्रिता ॥ ६१॥

आकर्षिणी तु मुद्रेयं सर्वसंक्षोभिणी स्मृता ।
व्योमद्वयान्तरालस्थबिन्दुरूपा महेश्वरि ॥ ६२॥

शिवशक्त्यात्मसंश्लेषाद्दिव्याकेशकरी स्मृता।
चतुर्दशारचक्रस्था संविदानन्दविग्रहा ॥ ६३॥

बिन्द्वन्तरालविलसत्सूक्ष्म रेखाशिखामयी ।
ज्येष्टाशक्तिप्रधाना तु सर्वोन्मादनकारिणी ॥ ६४॥

दशारचक्रमास्थाय संस्थिता वीरवन्दिते ।
वामाशक्तिप्रधाना तु महाङ्कुशमयी पुनः ॥ ६५॥

तद्वद्विश्वं वमन्ती सा दिव्तीये तु दशारके ।
संस्थिता मोदनपरा मुद्रारूपत्वमास्थिता ॥ ६६॥

धर्माधर्मस्य संघट्टादुत्थिता वित्तीरूपिणी ।
विकल्पोत्थक्रियालोपरूपदोषविधातिनी ॥ ६७॥

विकल्परूपरोगाणां हारिणी खेचरी परा ।
सर्वरोगहराख्ये तु चक्रे संविन्मयी स्थिता ॥ ६८॥

शिवशक्तिसमाश्लेषस्फुरद्व्योमान्तरे पुनः ।
प्रकाशयति विश्वं सा सूक्ष्मरूपस्थित सदा ॥ ६९॥

बीजरूपा महामुद्रा सर्वसिद्धिमये स्थिता ।
सम्पूर्णस्य प्रकाशस्य लाभभूमिरियं पुनः ॥ ७०॥

योनिमुद्रा कलारूपा सर्वानन्दमये स्थिता ।
क्रिया चैतन्यरूपत्वादेवं चक्रमयं स्थितम् ॥ ७१॥

इच्छारूपं परं तेजाः सर्वदा भावयेद् बुधः ।
त्रिधा च नवधा चैव चक्रसङ्केतकः पुनः ॥ ७२॥

वह्निनैकेन शक्तिभ्यां द्वाभ्यां चैकोऽप्रः पुनः ।
तैश्च वह्नित्रयेणापि शक्तीनां त्रितयेन च ॥ ७३॥

पद्मद्वयेन चान्यः स्याद् भूगृहत्रितयेन च ।
पञ्चशक्ति चतुर्वह्निपद्मद्वयमहीत्रयम् ॥ ७४॥

परिपूर्णं महचक्रं तत्प्रकारः प्रदर्श्यते ।
तत्राद्यं नवयोनि स्यात् तेन द्विदशासंयुतम् ॥ ७५॥

मनुयोनि परं विद्यात् तृतीयं तदनन्तरम् ।
अष्टद्व्यष्टदलोपेतं चतुरस्रत्रयान्वितम् ॥ ७६॥

चक्रस्य त्रिप्रकारत्वं कथितं परमेश्वरि ।
सृष्टिःस्यान्नवयोन्यादिपृथ्व्यन्तं संहृति पुनः ॥ ७७॥

पृथ्व्यादिनवयोन्यन्तमिति शास्त्रस्य निर्णयः ।
एतत्समष्टिरूपं तु त्रिपुराचक्रमुच्यते ॥ ७८॥

यस्य विज्ञानमात्रेण त्रिपुराज्ञानवान् भवेत् ।
चक्रस्य नवधात्वं च कथयामि तव प्रिये ॥ ७९॥

आदिमं भूत्रयेण स्याद् द्वितीयं षोडशारकम् ।
अन्यदष्टदलं प्रोक्तं मनुकोणमनन्तरम् ॥ ८०॥

पञ्चमं दशकोणं स्यात् षष्टं चापि दशारकम्॥

सप्तमं वसुकोणं स्यान्मध्यत्र्यस्रमथाष्टमम् ॥ ८१॥

नवमं त्र्यस्रमध्यं स्यात् तेषां नामान्यतः शृणु ।
त्रैलोक्यमोहनं चक्रं सर्वाशापरिपूरकम् ॥ ८२॥

सर्वसंक्षोभणं गौरि सर्वासौभाग्यदायकम् ।
सर्वार्थसाधकं चक्रं सर्वरक्षाकरं परम् ॥ ८३॥

सर्वरोगहरं देवि सर्वसिद्धिमयं तथा ।
सर्वानन्दमयं चापि नवमं शृणु सुन्दरि ॥ ८४॥

अत्र पुज्या महादेवी महात्रिपुरसुन्दरी ।
परिपूर्णं महाचक्रमजरामरकारकम् ॥ ८५॥

एतमेव महाचक्रसङ्केतः परमेश्वरि ।
कथितस्त्रिपुरादेव्या जीवन्मुक्तिप्रवर्तकः ॥ ८६॥

अथ द्वितीयः पटलः
मन्त्रसङ्केतं दिव्यमधुना कथ्यामि ते ।
यद्वेत्ता त्रिपुराकारो विरचक्रेश्वरो भवेत् ॥ १॥

करशुद्धिकरो त्वाद्या द्वितीया चात्मरक्षिका ।
आत्मासनगता देवी तृतीया तदनन्तरम् ॥ २॥

चक्रासनगता पश्चात् सर्वमन्त्रासनस्थिता ।
साध्यसिद्धासना ष्ष्टा मायालक्ष्मीमयी परा ॥ ३॥

मूर्तिविद्या च सा देवी सप्तमो परिकीर्तिता ।
अष्टम्यावाहिनी विद्या नवमा भैरवी परा ॥ ४॥

मूलविद्या तथा ख्याता त्रैलोक्यवशकारिणी ।
एवं नवप्रकारास्तु पूजाकाले प्रयत्नतः ॥ ५॥

एताः क्रमेण न्यस्तव्याः साधकेन कुलेश्वरि ।
पादाग्रजङ्घाजानूरुगुदलिङ्गाग्रकेषु च ॥ ६॥

आधरे विन्यसन्मूर्ति तस्यामावाहिनीं न्यसेत् ।
मूलेन व्यापकन्यासः कर्तव्यः परेम्श्वरि ॥ ७॥

अकुलादिषु पूर्बोक्तस्थानेषु परिचिन्तयेत् ।
चक्रेश्वरिसमायुक्तं नवचक्रं पुरोदितम् ॥ ८॥

तासां नामानि वक्ष्यामि यथानुक्रमयोगतः ।
तत्राद्या त्रिपुरा देवी द्वितीया त्रिपुरेश्वरी ॥ ९॥

तृतीया च तथा प्रोक्ता देवी त्रिपुरसुन्दरी ।
चतुर्थी च महादेवी देवी त्रिपुरवासिनी ॥ १०॥

पञ्चमी त्रिपुरा श्रीः स्यात् षष्टी त्रिपुरमालिनी ।
सप्तमी त्रिपुरा सिद्धिरष्टमी त्रिपुराम्बिका ॥ ११॥

नवमी तु माहदेवी महात्रिपुरसुन्दरी ।
पूजयेच्च क्रमादेता नवचक्रे पुरोदिते ॥ १२॥

एवं नवप्रकाराद्या पुजाकले तु पार्वति ।
एकाकारा ह्याद्यशक्तिरजरामरकारिणी ॥ १३॥

मन्त्रसङ्केतकस्तस्या नानाकारो व्यवस्थितः ।
नानामन्त्रकर्मेणैव पारम्पर्येण लभ्यते ॥ १४॥

षडविधस्तं तु देवेशि कथयामि तवानधे ।
भावार्थः सम्प्रदायार्थो निगमार्थश्च कौलिकः ॥ १५॥

तथा सर्वरहस्यार्थो महातत्त्वार्थ एव च ।
अक्षरार्थो हि भावार्थः केवलः परमेश्वरि ॥ १६॥

योगिनीभिस्तथा विरैर्वीरेन्द्राइः सर्वदा प्रिये ।
शिवशक्तिसमायोगाऽज्जनितो मन्त्रराजकः ॥ १७॥

तन्मयीं परमानन्दनन्दितां स्पन्दरूपिणीम् ।
निसर्गसुन्दरीं देवीं ज्ञात्वा स्वैरमुपासते ॥ १८॥

शिवशक्त्यात्मसंघट्टरूपे ब्र्ह्माणि शाश्वते ।
तत्प्रथाप्रसराश्लेषभुवि त्वैन्द्रोपलक्षिते ॥ १९॥

ज्ञातृज्ञानमयाकारसननान्मन्त्ररूपिणी ।
तेषां समष्टिरूपेण पराशक्तिस्तु मातृका ॥ २०॥

मध्यबिन्दुविसर्गान्तः समास्थानमये परे ।
कुटिलारूपके तस्याः प्रतिरूपे वियत्कले ॥ २१॥

मध्यप्राणप्रथारूपपस्पन्दव्योम्नि स्थित पुनः ।
मध्यमे मन्त्रपिण्डे तु तृतीये पिण्डके पुनः ॥ २२॥

राहुकूटाद्वयस्फूर्जच्चलत्तासंस्थितस्य तु ।
धर्माधर्मस्य वाच्यस्य विषामृतमयस्य च ॥ २३॥

वाचक्राक्षरसंयोगात् कथिता विश्वरूपिणी ।
तेषां समष्टिरूपेण पराशक्तिं तु मातृकाम् ॥ २४॥

कूटत्रयात्मिकां देवीं समष्टिव्यष्टिरूपिणिम् ।
आद्यां शक्तिं भावयन्तो भावार्थमिति मन्वते ॥ २५॥

सम्प्रदायो महाबोधरूपो गुरुमुखे स्थितः ।
विश्वाकारप्रथायास्तु महत्त्वञ्च यदाश्रयम् ॥ २६॥

शिवशक्त्याद्यया मूलविद्यया परमेश्वरि ।
जगत्कृत्स्नं तया व्याप्तं शृणुष्वावहिता प्रिये ॥ २७॥

पञ्चभूतमयं विश्वं तन्मयी सा सदानघे ।
तन्मयी मूलविद्या च तदद्य कथयाम्मि ते ॥ २८॥

हकाराद् व्योम सम्भूतं ककारात्तु प्रभञ्जनह् ।
रेफादग्निः सकाराच्च जलतत्त्वस्य सम्भवः ॥ २९॥

लकारात्,ह् पृथिवी जाता तस्माद् विश्वमयी च सा ।
गुणाःपञ्चदश प्रोक्ता भूतानं तन्मयी शिवा ॥ ३०॥

यस्य यस्य पदार्थस्य सा या शक्तिरुदीरिता ।
सा सा सर्वेश्वरी देवी स स सर्वो महेश्वरः ॥ ३१॥

व्याप्ता पञ्चदशार्णः सा विद्या भूतगुणात्मिकाः ।
पञ्चभिश्च तथा षड् भिश्चतुर्भिरपि चाक्षरः ॥ ३२॥

स्वरव्यञ्जनभेदेन सप्तत्रिंशत्प्रभेदेनी ।
सप्तत्रिंशत्प्रभेदेन षट् त्रिंशतत्त्वरूपिणी ॥ ३३॥

तत्त्वातीतस्वभावा च विद्यैषं भाव्यते सदा ।
पृथिव्यादिषु भूतेषु व्यापकं चोत्तरोत्तरम् ॥ ३४॥

भूतं त्वधस्तनं व्याप्यं तद् गुणा व्यापकाश्रयाः ।
व्याप्येष्ववस्थिता देवि स्थूलसूक्ष्मविभेदतः ॥ ३५॥

तस्माद्व्योमगुणः शब्दो वाय्वादीन् व्याप्य संस्थितः ।
व्योमबिहैस्तु विद्यास्थैर्लक्षयेच्छब्दपञ्चकम् ॥ ३६॥

तेषां कारुणरूपेण स्थित ध्वनिमयं परम् ।
भवेद् गुणवतां बीजं गुणानामपि वाचकम् ॥ ३७॥

कार्यकारणभावेन तयोरैक्य विवक्षया ।
महामायात्रयेणापि कारणेन च बिन्दुना ॥ ३८॥

वाय्वाग्निजलभूमीनां स्पर्शानां च चतुष्टयम् ।
उत्पन्नं भावयेद् देवि स्थूलसूक्ष्मविभेदतः ॥ ३९॥

रूपाणां त्रितयं तद्वत् त्रिभी रेफैर्विभावितम् ।
प्रधानं तेजसो रूपं तद् बीजेन हि जन्यते ॥ ४०॥

विद्यास्थैश्चन्द्रबीजैस्तु स्थूलसूक्ष्मो रसः स्मृतः ।
सम्बन्धो विदितो लोके रसस्याप्यमृतस्य च ॥ ४१॥

वसु धाया गुणो गन्धस्तल्लिपिर्गन्धवाचिका ।
भुवनत्रयसम्भन्धात् त्रिधात्वं तु महेश्वरि ॥ ४२॥

अशुद्धशुद्धमिश्राणां प्रमातॄणां परं वपुः ।
क्रोधीशत्रितये नाथ विद्यास्थेन प्रकाश्यते ॥ ४३॥

श्रीकण्ठदशकं तद्वद व्यक्तस्यापि वाचकः ।
प्राणरूपस्थितो देवि तद्वदेकादशः परः ॥ ४४॥

एकः सन्नेव पुरुषो बहुधा कायते हि सः ।
रुद्रेश्वरसदेशाख्या देवता मितविग्रहाः ॥ ४५॥

बिन्दुत्रयेण कथिता अमितामितविग्रहाः ।
शान्तिः शक्तिश्च शम्भुश्च नादत्रितयबोधनाः ॥ ४६॥

वागुरामूलवलये सूत्राद्याः कवलीकृताः ।
तथा मन्त्राः समस्ताश्च विद्यायामत्र संस्थिताः ॥ ४७॥

गुरुक्रमेण सम्प्राप्तः सम्प्रदायार्थ ईरितः ।
निगर्भार्थो महदेवि शिवगुर्वात्मगोचरः ॥ ४८॥

शिवगुर्वात्मनामैक्यानुसंधानात्तदात्मकम् ॥ ४९॥

निष्कलत्वं शिवे बुध्वा तद्रूपत्वं गुरोरपि ।
तन्निरीक्षणसामर्थ्यादात्मनश्च शिवात्मताम् ॥ ५०॥

भावयेदभक्तिनम्रः सङ्कोचोन्मेषाकलङ्कितः ।
कौलिकं कथयिष्यामि चक्रदेवतयोरपि ॥ ५१॥

विद्यागुर्वात्मनामैक्यं तत्प्रकारः प्रदर्श्यते ।
लकारैश्चतुरस्राणि वृत्तत्रितयसंयुतम् ॥ ५२॥

सरोरुहद्वयं शक्तैरग्नीषोमात्मकं प्रिये।
हृल्लेखात्रयसंभूतैरक्षरैर्नवसङ्ख्यकैः ॥ ५३॥

बिन्दुत्रययुतैर्जातं नवयोन्यात्मकं प्रिये।
मण्डलत्रययुक्तं तु चक्रं शक्त्यनलात्मकम् ॥ ५४॥

व्योमबीजत्रयेणैव प्रमातृत्रित्यान्वितम्।
इच्छाज्ञानक्रियारूपमादनत्रयसंयुतम् ॥ ५५॥

सदाशिवासनं देवि महाबिन्दुमयं परम्।
इत्थं मन्त्रात्मकं चक्रं देवतायाः परं वपुः ॥ ५६॥

एकादशाधिकशतदेवतात्मतया पुनः ।
गणेशत्वं महादेव्याः ससोमरविपावकैः ॥ ५७॥

इच्छाज्ञानक्रियाभिश्च गुणत्रययुतैह् पुनः।
ग्रहरूपा च सा देवी ज्ञानकर्मेन्द्रियैरपि ॥ ५८॥

तदर्थैरेव देवेशि करणैरान्तरैः पुनः।
प्रकृत्या च गुणेनापि पुंस्त्वबन्धेन चात्मना ॥ ५९॥

नक्षत्रविग्रहा जाता योगिनीत्वमथोच्यते।
त्वगादिधातुनाथाभिर्डाकिन्यादिभिरप्यसौ ॥ ६०॥

वर्गाष्टकनिविष्टाभिर्योगिनीभिश्च संयुता।
योगिनीरूपमास्थाय राजते विश्वविग्रा ॥ ६१॥

प्राणापानौ समानश्चोदनव्यानौ तथा पुनः।
नागः कूर्मोऽथ कृकरो देवदत्तो धनञ्जयः ॥ ६२॥

जीवात्मा पर्मात्मा चैत्येतै राशिस्वरूपिणी।
अकथादित्रिपङ्क्त्यात्मा तार्तियादिक्रमेण सा ॥ ६३॥

गणेशोऽभून्महाविद्या परावागादिवाङ्मयी।
बीजबिन्दुध्वनीनां च त्रिकूटेषु ग्रहात्मिका ॥ ६४॥

हृल्लेखात्रयसंभूतैस्तिथिसंख्यैस्तथाक्षरैः।
अन्यैर्द्वादशभिर्वर्णैरेषा नक्षत्ररूपिणी ॥ ६५॥

विद्यानन्तर्भूतशक्त्याद्यैः शाक्तैः षड् भिस्तथाक्षरैः।
योगिनीत्वं च विद्याय राशित्वं चान्त्यवर्जितैः ॥ ६६॥

एवं विश्वप्रकारा च चक्र रूपा महेश्वरी।
देव्या देहे यथा प्रोक्तो गुरुदेहे तथैव हि ॥ ६७॥

तत्प्रसादाच्च शिष्योऽपि तद्रूपः सम्प्रजायते।
इत्येवं कौलिकार्थस्तु कथितो विरवन्दिते ॥ ६८॥

तथा सर्वरह्स्यार्थं कथयामि तवानघे।
मूलाधारे तडिद्रूपे वाग्भवाकारतां गते ॥ ६९॥

अष्टात्रिंशत्कलायुक्तपञ्चाशद्वर्णविग्रहा।
विद्या कुण्डलिनीरूपा मण्दलत्रयभेदिनी ॥ ७०॥

तडित्कोटिनिभप्रख्या बिसतन्तुनिभाकृतिः।
व्योमेन्दुमण्डलासक्ता सुधास्त्रोतःस्वरूपिणी ॥ ७१॥

सदा व्याप्तजगत् कृत्स्ना सदानन्दस्वरूपिणी।
एषा स्वात्मेति बुद्धिस्तु रहस्यार्थो महेश्वरि ॥ ७२॥

महातत्त्वार्थं इति यत्तच देवि वदामि ते।
निष्कले प्रमे सूक्ष्मे निर्लक्ष्ये भाववर्जिते ॥ ७३॥

व्योमातीते परे तत्त्वे प्रकाशानन्दविग्रहे।
विश्वोत्तिर्णे विश्वमये तत्त्वे स्वात्मनियोजनम् ॥ ७४॥

तदा प्रकाशमानत्वं तेजसां तमसामपि।
अविनाभावरूपत्वं तस्माद्विश्वस्य सर्वतः ॥ ७५॥

प्रकाशते महातत्त्वं दिव्यक्रीडारसोज्ज्वले।
निरस्तसर्वसंकल्पविकल्पस्थितिपूर्वकः ॥ ७६॥

रहस्यार्थो मया गुप्तः सद्यः प्रत्ययकारकः।
महाज्ञानार्णवे दृष्टः शङ्का तत्र न पार्वति ॥ ७७॥

विद्यापीठनिबद्धेषु संस्थितो दिव्यसिद्धिदः।
कौलाचारपरैर्देवि पादुकाभावनापरैः ॥ ७८॥

योगिनीमेलनोद्युक्तैः प्राप्तविद्याभिषेचनैः।
शङ्काकलङ्कविगतैः सदा मुदितमानसैः ॥ ७९॥

पारम्पर्येण विज्ञातरहस्यार्थविशारदैः।
लभ्यते नान्यथ देवि त्वां शपेकुलसुन्दरि ॥ ८०॥

पारम्पर्यविहीना ये ज्ञानमात्रेण गर्विताः।
तेषां समयलोपेन विकुर्वन्ति मरीचयः ॥ ८१॥

यस्तु दिव्यरसास्वादमोदमानविमर्शनः।
देअतातिथिनक्षत्रे वारेऽपि च विवस्वतः ॥ ८२॥

मरीचीन् प्रीणयत्येव मदिरानन्दघूर्णितः।
सर्वदा च विशेषण लभते पूर्णबोधताम् ॥ ८३॥

एवंव्हावस्तु देवेशि देशिकेन्द्रप्रसादतः।
महाज्ञानमयो देवि सद्यः सम्प्राप्यते नरैः ॥ ८४॥

एवमेतत्प्रदं ज्ञानं विद्यार्णागमगोचरम्।
देवि गुह्यप्रियेणैव व्याख्यातं दुर्गि षड् विधम्।
सद्यो यस्य प्रबोधेन वीरचक्रेश्वरो भवेत् ॥ ८५॥

अथ तृतायः पटलः
पूजासङ्केतमधुना कथयामि तवानघे।
यस्य प्रबोधमात्रेण जिवन्मुक्तः प्रमोदते ॥ १॥

तव नित्योदिता पूजा त्रिभिर्भेदैर्व्यवस्थिता।
परा चाप्यपर गौरि तृतीया च परापरा ॥ २॥

प्रथमाद्वैतभावस्था सर्वप्रसरगोचरा।
द्वितीया चक्रपूजा च सदा निष्पाद्यते मया ॥ ३॥

एवं ज्ञानमये देवि तृतीया तु परापरा।
उत्तमा सा परा ज्ञेया विधानं शृणु साम्प्रतम् ॥ ४॥

महापद्मवनान्तस्थे वाग्भवे गुरुपादुकाम्।
आप्यायितजगद्रूपां पर्मामृतवर्षिणीम् ॥ ५॥

सञ्चिन्त्य परमाद्वैतभावनामृतघूर्णितः।
दहरान्तरसंसर्पन्नादालोकनतत्परः ॥ ६॥

विकल्परूपसंजल्पविमुखोऽन्तर्मुखः सदा।
चित्कलोल्लासदलितसंकोचस्त्वतिसुन्दरः।
इन्द्रियप्रीणनद्रव्यैविं हितस्वात्मपूजनः ॥ ७॥

न्यासं निर्वर्तयेदेहे षोढान्यासपुरःसरम्।
गणेशैः प्रथमो न्यासो द्वितीतस्तु ग्रहैर्मतः ॥ ८॥

नक्षत्रैश्च तृतीयः स्याद्योगिनीभिश्चतुर्थकः।
राशिभिः पञ्चमो न्यासः षष्ठः पीठैर्निगद्यते ॥ ९॥

षोढान्यासस्त्वयं प्रोक्तः सर्वत्रैवापराजितः।
एवं यो न्यस्तगात्रस्तु स पूज्यः सर्वयोगिभिः ॥ १०॥

नास्त्यस्य पूज्यो लोकेषु पितृमातृमुखो जनः।
स एव पूज्यः सर्वेषां स स्वयं परमेश्वरः ॥ ११॥

षोढान्यासविहीनं यं प्रणमेदेष पार्वति।
सोऽचिरान्मृत्युमाप्नोति नरकं च प्रपद्यते ॥ १२॥

षोढान्यासप्रकारं च कथयामि तवानघे।
विघ्नेशो विघ्नराजश्च विनायकशिवोत्तमौ ॥ १३॥

विघ्नकृद्विघ्नहर्ता च गणराट् गणनायकः।
एकदन्तो द्विदन्तश्च गजवक्त्रो निरञ्जनः ॥ १४॥

कपर्दवान् दीर्घमुखः शङ्कुकर्णो वृषध्वजः।
गणनाथो गजेन्द्रश्च शुर्पकर्णस्त्रिलोचनः ॥ १५॥

लम्बोदरो महानादश्चतुर्मूर्तिः सदाशिवः।
आमोदो दुर्मुखश्चैव सुमुखश्च प्रमोदकः ॥ १६॥

एकपादो द्विजिह्वश्च शूरो वीरश्च षण्मुखः।
वरदो वामदेवश्च वक्रतुण्डो द्विरण्डकः ॥ १७॥

सेनानीर्ग्रामणीर्मत्तो विमत्तो मत्तवाहनः।
जटी मुण्डी तथा खड्गी वरेण्यो वृषकेतनः ॥ १८॥

भक्ष्यप्रियो गणेशश्च मेघनादो गणेश्वरः।
तरुणारुणसङ्काशान् गजवक्त्रान् त्रिलोचनान् ॥ १९॥

पाशाङ्कुशवराभीतिहस्तान् शक्तिसमन्वितान्।
एतांस्तु विन्यसेदेहे मातृकान्यासवत्प्रिये ॥ २०॥

स्वरैस्तु सहितं सूर्यं हृदयाथः प्रविन्यसेत्।
बिन्दुस्थाने सुधासूतिं यादिवर्णचतुष्टयैः ॥ २१॥

भूपुत्रं लोचनद्वन्द्व कवर्गाधिपतिं प्रिये।
हृदये विन्यसेच्छुक्रं चवर्गाधिपतिं पुनः ॥ २२॥

हृदयोपरि विन्यसेट्टवर्गाधिपतिं बुधम्।
बृहस्पतिं कण्ठदेशे तवर्गाधिपतिं प्रिये ॥ २३॥

नाभौ शनैश्चरं देवि पवर्गेशं सुरेश्वरि।
वक्त्रेशादिचतुर्वर्णैः सहितं राहुमेव च ॥ २४॥

क्षकारसहितं केतुं पायो देवेशि विन्यसेत्।
[ रक्तं श्वेतं तथा रक्तं श्यामं पीतं च पाण्डुरम्।
कृष्णं धूम्रं धूम्रधूम्रं भावयेद्रविपुर्वकान्॥

कामरूपधरान् देवि दिव्याम्बरविभूषणान्।
वामोरुन्यस्तहस्तांश्च दक्षहस्तवरप्रदान् ॥]
ललाटे दक्षनेत्रे च वामे कर्णद्वये पुनः ॥ २५॥

पुटयोनिर्नासिकायाश्च कण्ठे स्कन्धद्वये पुनः।
पश्चात्कूर्परयुग्मे च मणिबन्धद्वये पुनः ॥ २६॥

स्तनयोर्नाभिदेशे च कटिबन्धे ततः परम्।
ऊरुयुग्मे तथा जान्वोर्जङ्घयोश्च पदद्वये ॥ २७॥

[ आद्ययुग्मन्तथा चैकं तस्त्रीणि चतुष्टयम्।
एकमेकं द्वयञ्चेति स्वराः प्रोक्ताश्चतुर्दश ॥ २८॥

व्यञ्जनेष्वेकमुभयं द्वयं न्यस्येदतः परम्।
एकं युग्मं द्वयन्द्वन्द्वमेकं युग्मं द्वयन्ततः ॥ २९॥

एकं त्रयं तथा चैकं एकमेकं द्वयन्तथा।
एकं द्वयं त्रयं पश्चाल्लक्षं अं मश्चतुष्टयम् ॥ ३०॥

अशिव्न्यादेः पुरो भगे दत्वा चक्रमतो न्यसेत् ]
ज्वलत्कालानलप्रख्या वरदाभयपाणयः ॥ ३१॥

नतिपाण्योऽश्विनीपूर्वाः सर्वाभरणभूषिताः।
एतास्तु विन्यसेद्देवि स्थानेष्वेषु सुरार्चिते ॥ ३२॥

विशुद्धौ हृदये नाभौ स्वाधिष्टाने च मूलके।
आज्ञायां धातुनाथाश्च न्यस्तव्या डादिदेवताः ॥ ३३॥

अमृतादियुताः सम्यङ्न्यस्तव्याश्च सुरेश्वरि।
पादे लिङ्गे च कुक्षौ च हृदये बाहुमूलयोः ॥ ३४॥

दक्षिणं पादमारभ्य वामपादावसानकम्।
मेषादिराशयो वर्णैर्न्यस्तव्याः सह पार्वति ॥ ३५॥

[ चतुष्कं त्रितयं त्रीणि द्वितयं द्वितयं द्वयम्।
पञ्चकं पञ्चकं पञ्च पञ्चक्तं पञ्चकं ततः॥

चत्वारि मेरुर्मिने स्युः कन्यायां पञ्च शादयः। ]
पिठानि विन्यसेद्देवि मातृकास्थानके पुनः।
तेषां नामानि वक्ष्यन्ते शृणुष्वावहिता प्रिये ॥ ३६॥

कामरूपं वाराणसी नेपालं पौण्ड्रवर्धनम्।
चरस्थिरं कान्यकुब्जं पूर्णशैलं तथार्बुदम् ॥ ३७॥

आम्रातकेश्वरैकाम्रं त्रिस्रोतः कामकोटकम्।
कैलासं भृगुनगरं केदारपूर्णचन्द्रके ॥ ३८॥

श्रीपीठमोङ्कारपीठं जालन्ध्रं मालवोत्कले।
कुलान्तं देविकोटं च गोकर्णं मारुतेश्वरम् ॥ ३९॥

अट्टहासं च विरजं राजगेहं महापथम्।
कोलापुर मेलापुरं ओङ्कारन्तु जयन्तिका ॥ ४०॥

उज्जयिन्यापि चित्रा च क्षीरकं हस्तिनापुरं।
ओड्डीशं च प्रयागाख्यं षष्ठं मायापुरं तथा ॥ ४१॥

जलेशं मलयं शैलं मेरुं गिरिवरं तथा।
महेन्द्रं वामनं चैव हिरण्यपुरमेव चा ॥ ४२॥

महालक्ष्मीपुरोड्याणं छायाछत्रमतः परम्।
एते पीठाः समुद्दिष्टा मातृकारूपकाः स्थिताः ॥ ४३॥

एवं षोढा पुरः कृत्वा श्रीचक्रन्यासमाचरेत्।
श्रीमत्त्रिपुरसुन्दर्याश्चक्रन्यासं शृणु प्रिये ॥ ४४॥

यन्न कस्यचिदाख्यातं तनुशुद्धिकरं परम्।
चतुरस्त्राद्यरेखायै नम इत्यादितो न्यसेत् ॥ ४५॥

दक्षांसपृष्ठपाण्यग्रस्फिक्कपादाङ्गुलीष्वथ।
वामाङ्घ्र्यङ्गुलिषुस्फिक्के पाण्यग्रे चांसपृष्ठके ॥ ४६॥

सचूलीमूलपृष्ठेषु व्यापकत्वेन सुन्दरि।
अत्रैव स्थानदशके अणिमाद्यास्तु विन्यसेत् ॥ ४७॥

सिद्धिस्तदन्तश्च तनुव्यापकत्वेन सुन्दरि।
[  चतुरस्रमध्यरेखायै नम इत्यपि वल्लभे। ]
तस्याः स्थानेषु विन्यस्य ब्रह्माण्याद्यास्तदाष्टसु ॥ ४८॥

पादाङ्गुष्ठद्वये पार्श्वे दक्षे मूर्धन्यपार्श्वके।
वामदक्षिणजान्वोश्च बहिरंसद्वये तथा ॥ ४९॥

न्यस्तव्याश्चतुरस्रान्त्यरेखायै नम इत्यपि।
विन्यसेद् व्यापकत्वेन पूर्वोक्तान्तश्च विग्रहे ॥ ५०॥

तस्याः स्थानेषु दशसु मुद्राणां दशकं न्यसेत्।
ब्रह्माण्याद्यष्टस्थानान्तस्तासामष्टौ न्यसेत्ततः ॥ ५१॥

शिष्टे द्वे द्वादशान्ते च पादाङ्गुष्ठे च विन्यसेत्।
तदान्तः षोडशदलपद्माय नम इत्यपि ॥ ५२॥

विन्यस्य तद्दले कामाकर्षिण्याद्याश्च विन्यसेत्।
दलानि दक्षिनश्रोत्रपृष्ठमंसं च कूर्परम् ॥ ५३॥

करपृष्ठं चोरुजानुगुल्फपादतलं तथा।
वामपादतलाद्येवमेतदेवाष्टकं मतम् ॥ ५४॥

तदन्तरे चाष्टदलपद्माय नम इत्यपि।
विन्यस्य तद्दलेष्वेषु दक्षशङ्खे च जत्रुके ॥ ५५॥

ऊर्वन्तर्गुल्फगुल्फोरुजत्रुशङ्खे च वमतः।
अनङ्गकुसुमाद्याश्च शक्तीरष्टौ च विन्यसेत् ॥ ५६
तदनतश्चतुर्दशारचक्राय नम इत्यपि।
विन्यस्य तस्य कोणेषु न्यसेच्छक्तीश्चतुर्दश ॥ ५७॥

सर्वसङ्क्षोभिण्याद्यास्तु तस्य कोणानि वच्म्यहम्।
ललाटं दक्षभागं च दक्षगण्डांसमध्यतः ॥ ५८॥

पार्श्वान्तरूरुकङ्घान्तर्वामजङ्घादि पार्वति।
वामोर्वन्तं वामपार्श्वं वामांसं वामगण्डकम् ॥ ५९॥

ललाटवाममध्ये च तथा वै पृष्ठमित्यपि।
ततो दशारचक्राय नम इत्यपि पार्वति ॥ ६०॥

तस्य कोणानि दक्षाक्षिनासामूलाऽऽस्यनेत्रके।
कुक्षीशवायुकोणेषु जानुद्वयगुदेषु च ॥ ६१॥

कुक्षिनै ॠर्तिवह्न्याख्यकोणेष्वेषु न्यसेत् पुनः।
सर्वासिद्धिप्रदादीनां शक्तीनां दशकं तथा ॥ ६२॥

तदन्तस्च दशारादिचक्राय नम इत्यपि।
विन्यस्य तस्य कोणेषु सर्वज्ञाद्याः प्रविन्यसेत् ॥ ६३॥

दक्षनासा सृक्किणी चा स्तनं वृषणमेव च।
सीविनी वाममुष्कं च स्तनं सृक्किणि नासिके ॥ ६४॥

नासाग्रं चैव विज्ञेयं कोणानां दशकं तथा।
तदन्तरष्टकोणादिचक्राय नम इत्यपि ॥ ६५॥

विन्यस्य तस्य कोणेषु वषिन्याद्यष्टकम् न्यसेत्।
चिबुकं कण्ठहृदयनाभीनां चैव दक्षिणम् ॥ ६६॥

ज्ञेयं पार्श्वचतुष्कं च मणिपूरादि वामकम्।
चतुष्ठयं च पार्श्वानामेतत् कोणाष्टकं मतम् ॥ ६७॥

हृदयस्थत्रिकोणस्य चतुर्दिक्षु बहिर्न्यसेत्।
शरचापौ पाशसृणी त्रिकोणाय नमस्तथा ॥ ६८॥

विन्यस्य तस्य कोणेषु अग्रदक्षोत्तरेषु च।
कामेश्वर्यादिदेवीनां मध्ये देवीं च विन्यसेत् ॥ ६९॥

एवं मयोदितो देवि ! न्यासो गुह्यतमक्रमः।
एतद् गुह्यतमं कार्यं त्वया वै वीरवन्दिते ॥ ७०॥

समयस्थाय दातव्यं नऽशिष्याय कदाचन।
गुप्ताद् गुप्ततरं चैतत्तवाऽद्य प्रकटीकृतम् ॥ ७१॥

मूलदेव्यादिकं न्यासमणिमान्तं पुनर्न्यसेत्।
[ त्रिकोणस्थे महाबिन्दौ महात्रिपुरसुन्दरीम् ]।
शिरस्त्रिकोणपूर्वादि कामेश्वर्यादिकं न्यसेत् ॥ ७२॥

बाणान्नेत्रे भ्रुवोश्चापौ कर्णे पाशद्वयं न्यसेत्।
सृणिद्वयं च नासाग्रे दक्षिणाग्रं तु विन्यसेत् ॥ ७३॥

मुण्डमूलक्रमेणैव न्यसेद्वाग्देवताष्टकम् ।
बैन्दवादीनि चक्राणि न्यस्तव्यानि वरानने ॥ ७४॥

नेत्रमूले त्वपाङ्गे च कर्णपूर्वोत्तरे पुनः।
चूडादिकण्ठनिम्नेऽर्धं शेषार्धं कर्णपृष्टके ॥ ७५॥

कर्णे पूर्वे त्वपाङ्गे च तस्य मूले च विन्यसेत्।
हृदये मनुकोणस्थ शक्तयोऽपि च पूर्ववत् ॥ ७६॥

सर्वसिद्ध्यादिकं कण्ठे प्रादक्षिण्येन विन्यसेत्।
नाभावष्टदलं तत्तु वंशे वामे च पार्श्वके ॥ ७७॥

उदरे सव्यपार्श्वे च न्यसेदादिचतुष्टयम्।
वंशवामान्तरालादि न्यसेदन्य चतुष्टयम् ॥ ७८॥

स्वाधिष्ठाने न्यसेत् स्वस्य पूर्वाद्दक्षावसानकम्।
चतस्रस्तु चतस्रस्तु चतुर्दिक्षु क्रमान्न्यसेत् ॥ ७९॥

मूलाधारे न्यसेन्मुद्रादशकं साधकोत्तमः।
पुनर्वंशे च सव्ये च वामे चैवान्तरालके ॥ ८०॥

ऊर्धोधो दशमुद्राश्च ऊर्ध्वाधोवर्जितं पुनः।
ब्रह्माण्याद्याष्टकं दक्षजन्घायां तास्तु पूर्ववत् ॥ ८१॥

वामजङ्घां समारभ्य वामादिक्रमतोऽपि च ।
सिद्ध्यष्टकं न्यसेत्तेषु द्वयं पादतले न्यसेत् ॥ ८२॥

कारणात्प्रसृतं न्यासं दीपाद्दीपमिवोदितम् ।
एवं विन्यस्य देवेशीं स्वाभेदेन विचिन्तयेत् ॥ ८३॥

ततश्च करशुद्ध्यादिन्

No comments:

Post a Comment